|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.201. अध्यायः 201
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दानस्य पञ्चविधत्वकथनपूर्वकं तत्तल्लक्ष्यप्रदर्शनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
[युधिष्ठिर उवाच।
श्रुतं मे भवतस्तात सत्यव्रतपराक्रम।
दानधर्मेण महता ये प्राप्तास्त्रिदिवं नृपाः॥ 13-201-1(89173)
इमांस्तु श्रोतुमिच्छामि ध्रमान्धर्मभृतांवर।
दानं कतिविधं देयं किं तस्य च फलं लभेत्॥ 13-201-2(89174)
कथं केभ्यस्च धर्म्यं च दानं दातव्यमिष्यते।
कैः कारणैः कतिविधं श्रोतुमिच्छामि तत्त्वतः॥ 13-201-3(89175)
भीष्म उवाच। 13-201-4x(7438)
शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ।
यथा दानं प्रदातव्यं सर्ववर्णेषु भारत॥ 13-201-4(89176)
धर्मादर्थाद्भयात्कामात्कारुण्यादिति भारत।
दानं पञ्चविधं ज्ञेयं कारणैर्यैर्निबोध तत्॥ 13-201-5(89177)
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्।
इति दानं प्रदातव्यं ब्राह्मणेभ्योऽनसूयता॥ 13-201-6(89178)
ददाति वा दास्यति वा मह्यं दत्तमनेन वा।
इत्यर्तिभ्यो निशम्यैव सर्वं दातव्यमर्थिने॥ 13-201-7(89179)
नास्याहं न मदीयोऽयं पापं कुर्याद्विमानितः।
इति दद्याद्भयादेव दृढं मूढाय पण्डितः॥ 13-201-8(89180)
प्रियो मे यं प्रियोऽस्याहमिति सम्प्रेक्ष्य बुद्धिमान्।
वयस्यायैवमक्लिष्टं दानं दद्यादतन्द्रितः॥ 13-201-9(89181)
दीनश्च याचते चायमल्पेनापि हि तुष्यति।
इति दद्याद्दरिद्राय कारुण्यादिति सर्वथा॥ 13-201-10(89182)
इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम्।
यथाशक्त्या प्रदातव्यमेवमाह प्रजापतिः॥] ॥ 13-201-11(89183)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाधिकद्विशततमोऽध्यायः॥ 201 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-201-6 धर्मद्दानं व्याचष्टे इहेति॥ 7-201-7 अर्थादित्यस्य लक्षणमाह ददातीति॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|